हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Dakshinamurthy Upanishad – श्री दक्षिणामूर्त्युपनिषत्


ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ॥

ओं ब्रह्मावर्ते महाभाण्डीर वटमूले महासत्राय समेता महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरञ्जीविनमुपसमेत्य पप्रच्छुः ।

केन त्वं चिरं जीवसि । केन वाऽऽनन्दमनुभवसीति । परमरहस्य शिवतत्त्वज्ञानेनेति स होवाच । किं तत्परमरहस्य शिवतत्त्वज्ञानम् । तत्र को देवः । के मन्त्राः । को जपः । का मुद्रा । का निष्ठा । किं तत् ज्ञानसाधनम् । कः परिकरः । को बलिः । कः कालः । किं तत् स्थानमिति । स होवाच ।

येन दक्षिणाभिमुखः शिवोऽपरोक्षीकृतो भवति । तत्परमरहस्य शिवतत्त्वज्ञानम् । यः सर्वोपरमकाले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दे सुखे मोदते प्रकाशते
वा स देवः ।

– चतुर्विंशाक्षर मनुः –

अत्रैते मन्त्ररहस्यश्लोका भवन्ति । मेधादक्षिणामूर्तिमन्त्रस्य । ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेणाङ्गन्यासः ।

ओमादौ नम उच्चार्य ततो भगवते पदम् ।
दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ।
अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां ततो वदेत् ।
प्रमुच्चार्य ततो वायुबीजं छच्च च ततः पठेत् ।
अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥

ध्यानम् –
स्फटिकरजतवर्णं मौक्तिकीमक्षमाला-
-ममृतकलशविद्या ज्ञानमुद्राः कराब्जैः ।
दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं
विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥

[** ओं नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा **]

– नवाक्षर मनुः –

ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।
आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् ।
पञ्चार्णं तत उद्धृत्य तत्पुनः सविसर्गकम् ।
अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥

ध्यानम् –
मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं
जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः ।
आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रिनेत्रो
दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिवृतो भावसिद्धिं भवो नः ॥

[** ओं अः शिवाय नम अः ओं **]

– अष्टादशाक्षर मनुः –

ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।
तारं ब्लूं नम उच्चार्य मायां वाग्भवमेव च ।
दक्षिणा पदमुच्चार्य ततः स्यान्मूर्तये पदम् ।
ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो वदेत् ।
मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥

ध्यानम् –
भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला-
-वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः
सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥

[** ओं ब्लूं नमो ह्रीं ऐं दक्षिणामूर्तये ज्ञानं देहि स्वाहा **]

– द्वादशाक्षर मनुः –
ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।
तारं मायां रमाबीजं पदं साम्बशिवाय च ।
तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥

ध्यानम् –
वीणां करैः पुस्तकमक्षमालां
बिभ्राणमभ्राभगलं वराढ्यम् ।
फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः
सेव्यं वटाधः कृतनीडमीडे ॥

[** ओं ह्रीं श्रीं साम्बशिवाय तुभ्यं स्वाहा **]

– अनुष्टुभो मन्त्रराजः –

विष्णु ऋषिः । अनुष्टुप् छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।

तारं नमो भगवते तुभ्यं वट पदं ततः ।
मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ।
वागीशाय पदं पश्चान्महाज्ञानपदं ततः ।
दायिने पदमुच्चार्य मायिने नम उद्धरेत् ।
अनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥

ध्यानम् –
मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं
मुक्ताहारविभूषितं शशिकलाभास्वत्किरीटोज्ज्वलम् ।
अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं
न्यग्रोधात्तनिवासिनं परगुरुं ध्यायेदभीष्टाप्तये ॥

[** ओं नमो भगवते तुभ्यं वटमूलवासिने ।
वागीशाय महाज्ञानदायिने मायिने नमः ॥ **]

मौनं मुद्रा । सोऽहमिति यावदास्थितिः सानिष्ठा भवति । तदभेदेन मन्वाम्रेडनं ज्ञानसाधनम् । चित्ते तदेकतानता परिकरः । अङ्गचेष्टार्पणं बलिः । त्रीणि धामानि कालः । द्वादशान्तपदं स्थानमिति ।

ते ह पुनः श्रद्धधानास्तं प्रत्यूचुः । कथं वाऽस्योदयः । किं स्वरूपम् । को वाऽस्योपासक इति । स होवाच ॥

वैराग्यतैलसम्पूर्णे भक्तिवर्तिसमन्विते ।
प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥

मोहान्धकारे निःसारे उदेति स्वयमेव हि ।
वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥

गाढतामिस्रसंशान्तं गूढमर्थं निवेदयेत् ।
मोहभानुजसङ्क्रान्तं विवेकाख्यं मृकण्डुजम् ॥

तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् ।
उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥

शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् ।
दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥

सर्गादिकाले भगवान् विरिञ्चि-
-रुपास्यैनं सर्गसामर्थ्यमाप्य ।
तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा
धन्यः सोस्योपासको भवति धाता ॥

– अध्ययन फलम् –

य इमां परमरहस्य शिवतत्त्वविद्यामधीते । स सर्वपापेभ्यो मुक्तो भवति । य एवं वेद । स कैवल्यमनुभवति । इत्युपनिषत् ॥

ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ॥

इति श्री दक्षिणामूर्त्युपनिषत् ॥


Sri Dakshinamurthy Stotras – श्री दक्षिणामूर्ति स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright 2019-2025 © sanatanadharm.com All Rights Reserved . Made in India.